योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन ।
योपाकरोत्तं प्रवरं मुनीनां पतंजलिं प्रांजलिरानतोऽस्मि ॥
શ્લોક નો અર્થ : યોગ થી ચિત્તનું (મન નું), પદ (વ્યાકરણ) થી વાણી નું, વૈદ્ય ના જ્ઞાન થી શરીર નું મળ જેમને દૂર કર્યું છે. તેવા મુનિ શ્રેષ્ઠ પતંજલિ ને હું અંજલિબદ્ધ થઈને નમસ્કાર કરું છું.
अर्थ- योग से चित्त का, पद (व्याकरण) से वाणी का व वैद्यक से शरीर का मल, जिन्होंने दूर किया, उन मुनि श्रेष्ठ पतंजलि को मैं अंजलि बद्ध होकर नमस्कार करता हूँ।
Patanjal Yog Sutra
अथ योगानुशासनम् ॥१॥
योगश्चित्तवृत्तिनिरोधः ॥२॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
वृत्ति सारूप्यमितरत्र ॥४॥
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥
प्रत्यक्षानुमानाअगमाः प्रमाणानि ॥७॥
विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
अभावप्रत्ययाअलम्बना तमोवृत्तिर्निद्र ॥१०॥
अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
अभ्यासवैराग्याअभ्यां तन्निरोधः ॥१२॥
तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
स तु दीर्घकाल नैरन्तर्य
सत्काराअदराअसेवितो दृढभूमिः ॥१४॥
दृष्टानुश्रविकविषयवितृष्णस्य
वशीकारसंज्णा वैराग्यम् ॥१५॥
तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥
वितर्कविचाराअनन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥
श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
तीव्रसंवेगानामासन्नः ॥२१॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
ईश्वरप्रणिधानाद्वा ॥२३॥
क्लेश कर्म विपाकाअशयैःअपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥
तस्य वाचकः प्रणवः ॥२७॥
तज्जपः तदर्थभावनम् ॥२८॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥
व्याधि स्त्यान संशय प्रमादाअलस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
मैत्री करुणा मुदितोपेक्षाणांसुखदुःख
पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥
प्रच्छर्दनविधारणाअभ्यां वा प्राणस्य ॥३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥
विशोका वा ज्योतिष्मती ॥३६॥
वीतराग विषयम् वा चित्तम् ॥३७॥
स्वप्ननिद्रा ज्ञानाअलम्बनम् वा ॥३८॥
यथाअभिमतध्यानाद्वा ॥३९॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥
सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥
ता एव सबीजस्समाधिः ॥४६॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
ऋतंभरा तत्र प्रज्ञा ॥४८॥
श्रुतानुमानप्रज्ञाअभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥
યોગ સૂત્ર નો વિડિઓ નીચે છે