Sankhya_Karika_Darshan_Kapil Muni


 ॥ ईश्वरकृष्णस्य सांख्यकारिका ॥
साङ्ख्य कारिका - ईश्वरकृष्ण
दुःखत्रयाभिघाताज् जिज्ञासा तदप१घातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ १॥

दृष्टवदानुश्रविकः स ह्यविशुद्धि१ क्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥


मूलप्रकृतिरविकृतिर्महदाद्याः१ प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥

दृष्टमनुमानमाप्तवचनं च१ सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥

प्रतिविषयाध्यवसायो दृष्टं त्रि१विधमनुमानमाख्यातम्।
तल्लिङ्गलिङ्गि२पूर्वकमाप्तश्रुतिराप्तवचनं तु३ ॥ ५॥

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिर१नुमानात् ।
तस्मादपिचासिद्धं परोऽक्षमाप्तागमात् सिद्धं२ ॥ ६॥


अतिदूरात् सामीप्यादिन्द्रियघातान् मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहारच्च ॥ ७॥

सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धिः १ ।
महदादि तच्च२ कार्यं प्रकृतिविरूपं सरूपं३ च ॥ ८॥


असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १०॥
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११॥


प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्ति१नियमार्थाः ।
अन्योऽन्याभिभवाश्रय जननमिथुनवृत्तयश्च गुणाः ॥ १२॥


सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं १,२ चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३॥

अविवेक्यादि हि सिद्धं१ त्रैगुण्यात् तद्विपर्यया२भावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४॥


भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूपस्य१ १५॥

कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च१ ।
परिणामतः२ सलिलवत् प्रतिप्रति३गुणाश्रय४विशेषात् ॥ १६॥


सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं१ प्रवृत्तेश्च ॥ १७॥

जनन१मरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्य२विपर्ययाच्चैव ॥ १८॥

तस्माच्च विपर्यासात्१ सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च २,३ ॥ १९॥

तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुण१कर्तृत्वे च२ तथा कर्तेव भवत्यु३दासीनः४ ॥ २०॥


पुरुषस्य दर्शनार्थं कैवल्यार्थं१ तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१॥

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च१ षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२॥


अध्यवसायो बुद्धिर्धर्मो ज्ञानं विरागाइश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ २३॥

अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्त१न्मात्रः२ पञ्चकश्चैव३ ॥ २४॥


सात्त्विकैकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्१मात्रः स तामसस्तैजसादुभयम् ॥ २५॥

बुद्धीन्द्रियाणि चक्षुः१ श्रोत्रघ्राणरसन२त्वगाख्यानि३ ।
वाक्पाणिपादपायूपस्थान्४ कर्मेन्द्रियान्याहुः ॥ २६॥


उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान् नानात्वं बाह्य२भेदाच्च३,१ ॥ २७॥

शब्दादिषु१ पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च२ पञ्चानाम् ॥ २८॥


स्वालक्षण्यं१ वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९॥

युगपच्चतुष्टयस्य तु१ वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३०॥


स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां१ वृत्तिम् ।
पुरुषार्थैव हेतुर्न केनचित् कार्यते करणम् ॥ ३१॥

करणं त्रयोदशविधं तदाहरण१धारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ ३२॥

अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्य१न्तरं करणम् ॥ ३३॥

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि१ ।
वाग्भवति शब्दविषया शेषाणि तु२ पञ्चविषयाणि१ ॥ ३४॥

सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५॥

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६॥

सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः१ प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७॥

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च१ ॥ ३८॥

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९॥

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं१ भावैरधि२वासितं लिङ्गम् ॥ ४०॥

चित्रं यथाश्रयमृते स्थाण्वा१दिभ्यो विना यथा२ छाया ।
तद्वद् विना विशेषैर्न तिष्ठति३ निराश्रयं लिङ्गम् ॥ ४१॥

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान् नटवद् व्यवतिष्ठते१ लिङ्गम् ॥ ४२॥

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३॥

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४॥

वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्१ रागात् ।
ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ ४५॥

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्य१विमर्दात्२ तस्य च३ भेदास्तु पञ्चाशत् ॥ ४६॥

पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च१ करणवैकल्यात् ।
अष्टाविंशतिभेदास्तु२ष्टिर्नवधाष्टधा सिद्धिः ॥ ४७॥

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
१तामिस्रोऽष्टा२दशधा तथा भवत्यन्धतामिस्रः१ ॥ ४८॥

एकादशेन्द्रियवधाः१ सह बुद्धिवधैरशक्तिरुद्दिष्टा२ ।
सप्तदश वधा३ बुद्धेर्वि४पर्ययात्५ तुष्टिसिद्धीनाम् ॥ ४९॥

आध्यात्मिकाश्चतस्रः१ प्रकृत्युपादानकालभाग्या२ख्याः ।
बाह्या विषयोपरमाच्च पञ्च३ नव४ तुष्टयोऽभिमताः ५ ॥ ५०॥

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः१ सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ२ सिद्धेः३ पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१॥

न विना भावैर्लिङ्गं न विना लिङ्गेन भाव१निर्वृत्तिः२ ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधाः प्रवर्तते३ सर्गः ॥ ५२॥

अष्टविकल्पो दैवस्त१इर्यग्योनश्च२-३ पञ्चधा भवति ।
मानुष्य४श्चैक५विधः समासतो भौतिकः६ सर्गः ॥ ५३॥

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च१ मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादि२ स्तम्बपर्यन्तः३ ॥ ५४॥

तत्र१ जरामरणकृतं२ दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्यावि३निवृत्तेस्तस्माद् दुःखं स्वभावेन४ ॥ ५५॥

इत्येष प्रकृतिकृतो१ महदादिविशेष२भूतपर्यन्तः३ ।
प्रतिपुरुषविमोक्षार्थं स्वार्थैव परार्था४रम्भः ॥ ५६॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं१ प्रवर्तते तद्वदव्यक्तम् ॥ ५८॥

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते१ प्रकृतिः ॥ ५९॥

नानाविधैरुपायैरु१पकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति२ ॥ ६०॥

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१॥

तस्मान् न १बध्यतेऽद्धा न२ मुच्यते३ नापि संसरति कश्चित्४ ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२॥

रूपैः सप्तभिरेव तु१ बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थं प्रति२ विमोचयत्येकरूपेण ॥ ६३॥
 
एवं तत्त्वाभ्यासान् नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४॥

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्१ ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः२ ॥ ६५॥

दृष्टा मयेत्यु१पेक्षकैको दृष्टाहमित्युपरतान्या३ ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६॥

सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्१ धृतशरीरः ॥ ६७॥

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥

१पुरुषार्थ२ज्ञानमि३दं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलया४श्चिन्त्यन्ते५ यत्र भूतानाम् ॥ ६९॥

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन१ बहुधा२कृतं तन्त्रम् ॥ ७०॥

शिष्य१परम्परयागतमीश्वरकृष्णेन चैतदार्याभिः ।
सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१॥

सप्तत्यां किल१ येऽर्थास्तेऽर्थाः कृत्स्नस्य सृष्टितन्त्रस्य ।
आख्यायिका२विरहिताः परवादविवर्जिताश्चाऽपि ॥ ७२॥

तस्मात् समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीणम् ।
तन्त्रस्य१ बृहन्मूर्तेर्दर्पणसङ्क्रान्तमिव बिम्बम् ॥ ७३॥
समाप्तम् 
साङ्ख्यकारिका




You may like these posts: