हरि: ॐ
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्।
विश्वं नारायणं देवअक्षरं परमं पदंम् ॥१॥
विश्वत: परमान्नित्यं विश्वं नारायणं हरिम्।
विश्वमेवेदं पुरुषस्तद्विविश्वमुपजीवति ||२॥
पतिं विश्वस्याડડत्मेश्वरं शाश्वतं शिवमुच्यतम्।
नारायणं महाज्ञेयं विश्र्वात्मानम् परायणम् ॥३॥
नारायणपरो ज्योतिरात्मानारायण: पर:।
नारायणपरं ब्रह्मतत्वं नारायण: पर:।
नारायणपरो ध्याता ध्यानं नारायण: पर: ॥४॥
यच्चकिञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: ॥५॥
अनन्तंमव्ययंकविं समुद्रेन्तं विश्वशंभुवम्।
पद्मकोशप्रतीकाशं हृदयंचाप्यधोमुखम् ॥६॥
अधोनिष्टयावितस्त्यान्ते नाभ्यामुपरि तिष्ठति।
ज्वालमालाकुलम्भाति विश्वस्याડડयतनं महत्॥७॥
सन्ततं शिलाभिस्तु लम्बत्याकोशसन्निभम्।
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्॥८॥
तस्यमध्ये महानग्निर्विविश्वार्चिविश्वतोमुख:।
सोऽग्रभुग्विभजन्तिष्ठन् आहारमजर: कवि:।
तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तता ॥९॥
सन्तापयति स्वन्देहमापादतलमस्तकः।
तस्यमध्ये वहिन्शिखा अणीयोर्ध्वा व्यवस्थित:॥१०॥
नीलतोयदमध्यस्थात् विद्युल्लेखेवभास्वरा।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥११॥
तस्या: शिखाया मध्ये परमात्मा व्यवस्थितः।
सब्रह्म सशिव: सहरि: सेन्द्र: सोऽक्षरः परमः स्वराट् ॥१२॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः ॥