17 - श्रद्धात्रय विभाग योग


अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ (१)

श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु ॥ (२)

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । 
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ (३)

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यन्ते तामसा जनाः ॥ (४)

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । 
दम्भाहङ्‍कारसंयुक्ताः कामरागबलान्विताः ॥ (५)

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । 
मां चैवान्तःशरीरस्थं तान्विद्ध्‌यासुरनिश्चयान्‌ ॥ (६)

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । 
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु ॥ (७)
 
आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । 
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ (८)
 
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । 
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ (९)

यातयामं गतरसं पूति पर्युषितं च यत्‌ । 
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्‌ ॥ (१०)

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । 
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ (११)
 
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्‌ । 
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्‌ ॥ (१२)

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्‌ । 
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ (१३)

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्‌ । 
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ (१४)

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌ । 
स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते ॥ (१५)

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । 
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ (१६)

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । 
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ (१७)

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्‌ । 
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्‌ ॥ (१८)

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्‌ ॥ (१९)

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । 
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्‌ ॥ (२०)

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । 
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्‌ ॥ (२१)

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । 
असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ॥ (२२)

ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । 
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥ (२३)

तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः । 
प्रवर्तन्ते विधानोक्तः सततं ब्रह्मवादिनाम्‌॥ (२४)
 
तदित्यनभिसन्दाय फलं यज्ञतपःक्रियाः । 
दानक्रियाश्चविविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥ (२५)

सद्भावे साधुभावे च सदित्यतत्प्रयुज्यते । 
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ (२६)

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । 
कर्म चैव तदर्थीयं सदित्यवाभिधीयते ॥ (२७)

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌ । 
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ (२८)

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्याय : ॥

॥ हरि: ॐ तत् सत् ॥

[posts--tag:GitaShlok--18]

You may like these posts: