Purusha_Suktam


 पुरुष सुक्तम्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङुलम् ॥१॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । 
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥

एतावानस्य महिमातो ज्यायाँश्च पूरुषः । 
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

त्रिपादूर्ध्व उदैत्पूरुषः पादोऽस्येहाभवत्पुनः । 
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥

तस्माद्विराळजायत विराजो अधि पूरुषः । 
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । 
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । 
पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥८॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥

तस्मादश्वा अजायन्त ये के चोभयादतः । 
गावोः ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । 
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । 
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । 
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । 
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥

इति पुरुष सूक्तं 


You may like these posts: