हरिः ॐ
हिरण्यवर्णां हरिणीं
सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ॥१॥
तां म आवह जातवेदो
लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं
गामश्वं पुरुषानहम् ॥२॥
अश्वपूर्वां रथमध्यां
हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये
श्रीर्मा देवी जुषताम् ॥३॥
कां सोस्मितां हिरण्यप्राकारा
मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां
तामिहोपह्वये श्रियम् ॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं
श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्ये
ऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
आदित्यवर्णे तपसोऽधिजातो
वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु
मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
उपैतु मां देवसखः
कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्की
र्तिमृद्धिं ददातु मे ॥७॥
क्षुत्पिपासामलां ज्येष्ठाम
અलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च
सर्वां निर्णुद मे गृहात् ॥८॥
गन्धद्वारां दुराधर्षां
नित्यपुष्टां करीषिणीम् ।
ईश्वरींग् सर्वभूतानां
तामिहोपह्वये श्रियम् ॥९॥
मनसः काममाकूतिं
वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य
मयि श्रीः श्रयतां यशः ॥१०॥
कर्दमेन प्रजाभूता
मयि सम्भव कर्दम ।
श्रियं वासय मे कुले
मातरं पद्ममालिनीम् ॥११॥
आपः सृजन्तु स्निग्धानि
चिक्लीत वस मे गृहे ।
नि च देवीं मातरं
श्रियं वासय मे कुले ॥१२॥
आर्द्रां पुष्करिणीं पुष्टिं
पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ॥१३॥
आर्द्रां यः करिणीं यष्टिं
सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ॥१४॥
तां म आवह जातवेदो
लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं
गावो दास्योऽश्वान्
विन्देयं पूरुषानहम् ॥१५॥
यः शुचिः प्रयतो भूत्वा
जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च
श्रीकामः सततं जपेत् ॥१६॥
पद्मानने पद्म ऊरु
पद्माक्षी पद्मासम्भवे ।
तन्मे भजसि पद्माक्षी
येन सौख्यं लभाम्यहम् ॥१७॥
अश्वदायि गोदायि
धनदायि महाधने ।
धनं मे जुषतां देवि
सर्वकामांश्च देहि मे ॥१८॥
पद्मानने पद्मविपद्मपत्रे
पद्म प्रिये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले
त्वत्पादपद्मं मयि सन्निधत्स्व ॥१९॥
पुत्रपौत्र धनं धान्यं
हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता
आयुष्मन्तं करोतु मे ॥२०॥
धनमग्निर्धनं वायु
र्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पति
र्वरुणं धनमस्तुमे ॥२१॥
वैनतेय सोमं पिब
सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो
मह्यं ददातु सोमिनः ॥२२॥
न क्रोधो न च मात्सर्य
न लोभो नाशुभामतिः ।
भवन्ति कृतपुण्यानां
भक्तानां श्रीसूक्तं जपेत् ॥२३॥
सरसिजनिलये सरोजहस्ते
धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥२૪॥
विष्णुपत्नीं क्षमां देवी
माधवी माधवप्रियाम्।
लक्ष्मीं प्रियसखीं देवीं
नमाम्यच्युतवल्लभाम्॥२५॥
महालक्ष्मी च विद्महे
विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥२६॥
श्रीवर्चस्वमायुष्यमारोग्यમ
माविधाच्छोभमानं महीयते।
धान्यं धनं पशुं बहुपुत्रलाभं
शतसंवत्सरं दीर्घमायु:॥२७॥
हरिः ॐ
ॐ शान्तिः शान्तिः शान्तिः ॥
[posts--tag:Stotra--18]