गंगा लहरी


 समृद्धं सौभाग्यं सकल वसुधायाः किमपि तत्-
महैश्वर्यं लीला जनित जगतः खण्डपरशोः ।
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु॥१॥

दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदाम्
द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् ।
अपि द्रागाविद्याद्रुमदलन दीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमऽपारां दिशतु नः॥२॥

उदञ्चन्मार्तण्ड स्फुट कपट हेरम्ब जननी
कटाक्ष व्याक्षेप क्षण जनितसंक्षोभनिवहाः।
भवन्तु त्वंगंतो हरशिरसि गङ्गातनुभुवः
तरङ्गाः प्रोत्तुङ्गा दुरितभव भङ्गाय भवताम्॥३॥

तवालम्बादम्ब स्फुरद्ऽलघुगर्वेण सहसा
मया सर्वेऽवज्ञा सरणिमथ नीताः सुरगणाः ।
इदानीमौदास्यं भजसि यदि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः॥४॥

स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चण्डांशु सरणिः।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला
ममान्तःसन्तापं त्रिविधमपि पापं च हरताम्॥५॥

अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।
सुधातः स्वादीयः सलिलभरमातृप्ति पिबताम्
जनानामानन्दः परिहसति निर्वाणपदवीम्॥६॥

प्रभाते स्नान्तीनां नृपति रमणीनां कुचतटी-
गतो यावन् मातः मिलति तव तोयैर्मृगमदः।
मृगास्तावद्वैमानिक शतसहस्रैः परिवृता
विशन्ति स्वच्छन्दं विमल वपुषो नन्दनवनम्॥७॥

स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि
प्रगीतं यत्पापं झटिति भवतापं च हरति ।
इदं तद्गङ्गेति श्रवण रमणीयं खलु पदम्
मम प्राण प्रान्त: वदन कमलान्तर्विलसतु॥८॥

यदन्तः खेलन्तो बहुलतर सन्तोष भरिता
न काका नाकाधीश्वर नगर साकाङ्क्ष मनसः ।
निवासाल्लोकानां जनि मरण शोकापहरणम्
तदेतत्ते तीरं श्रम शमन धीरं भवतु नः॥९॥

न यत्साक्षाद्वेदैरपि गलितभेदैरवसितम्
न यस्मिञ्जीवानां प्रसरति मनोवागवसरः ।
निराकारं नित्यं निजमहिम निर्वासित तमो-
विशुद्धं यत्तत्त्वं सुरतटि नि तत्त्वं न विषयः॥१०॥

महादानैः ध्यानैर्बहुविध वितानैरपि च यत्
न लभ्यं घोराभिः सुविमल तपोराजिभिरपि।
अचिन्त्यं तद्विष्णोःपदमखिल साधारणतया
ददाना केनासि त्वमिह तुलनीया कथय नः॥११॥

नृणामीक्षामात्रादपि परिहरन्त्या भवभयम्
शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रीकण्ठः शिरसि नियतं धारयति याम्॥१२॥

विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैः
अवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।
हरन्ती लोकानामनवरतमेनांसि कियताम्
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे॥१३॥

स्खलन्ती स्वर्लोकादवनितलशोकापहृतये
जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।
अये निर्लोभानामपि मनसि लोभं जनयताम्
गुणानामेवायं तव जननि दोषः परिणतः॥१४॥

जडानन्धान्पङ्गून् प्रकृतिबधिरानुक्तिविकलान्
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि॥१५॥

स्वभावस्वच्छानां सहजशिशिराणामयमपाम्
अपारस्ते मातर्जयति महिमा कोऽपि जगति ।
मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः
समासाद्याद्यापि स्पुटपुलकसान्द्राः सगरजाः॥१६॥

कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
नरान् दूरीकर्तुं त्वमिव जननि त्वं विजयसे॥१७॥

निधानं धर्माणां किमपि च विधानं नवमुदाम्
प्रधानं तीर्थानाममलपरिधानं त्रिजगतः।
समाधानं बुद्धेरथ खलु तिरोधानमधियाम्
श्रियामाधानं नः परिहरतु तापं तव वपुः॥१८॥

पुरो धावं धावं द्रविण मदिरा घूर्णित दृशाम्
महीपानां नाना तरुणतर खेदस्य नियतम् ।
ममैवायं मन्तुः स्वहित शत हन्तुर्जडधियो
वियोगस्ते मातः यदिह करुणातः क्षणमपि॥१९॥

मरुल्लीला लोलल्लहरि लुलिताम्भोज पटली-
स्खलत्पां-सुव्रातच्छुरण विसरत्कौंकुम रुचि ।
सुर स्त्री वक्षोज क्षरद् अगरु जम्बाल जटिलम्
जलं ते जम्बालं मम जनन जालं जरयतु॥२०॥

समुत्पत्तिः पद्मारमण पद पद्मामल नखात्
निवासः कन्दर्प प्रतिभट जटाजूट भवने ।
अथायं व्यासङ्गो हतपतित निस्तारण विधौ
न कस्मादुत्कर्षस्तव जननि जागर्तु जगतः॥२१॥

नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
कया च श्रीभर्तुः पद कमलमक्षालि सलिलैः
तुलालेशो यस्यां तव जननि दीयेत कविभिः॥२२॥

विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो
सुखं शेषे शेतां हरि: अविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती॥२३॥

अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदाम्
पतन् विश्वोद्भर्त्री गदविदलितः सिद्धभिषजम् ।
सुधासिन्धुं तृष्णाऽकुलितहृदयो मातरमयम्
शिशुः संप्राप्तस्त्वामहमिह विदध्याः समुचितम्॥२४॥

विलीनो वै वैवस्वतनगर कोलाहल भरः
गता दूता दूरं क्वचिदपि परेतान् मृगयितुम् ।
विमानानां व्रातो विदलयति वीथीर्दिविषदाम्
कथा ते कल्याणी यदवधि महीमण्डलमगात्॥२५॥

स्फुरत्काम क्रोध प्रबलतर सञ्जातजटिल-
ज्वरज्वाला जाल ज्वलित वपुषां नः प्रति दिनम् ।
हरन्तां सन्तापं कमपि मरुदुल्लासलहरी-
छटाश्चञ्चत्पाथः,कणसरणयो दिव्यसरितः॥२६॥

इदं हि ब्रह्माण्डं सकल भुवनाभोगभवनम्
तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।
स एष श्रीकण्ठ प्रवितत जटाजूट जटिलः
जलानां सङ्घातस्तव जननि तापं हरतु नः॥२७॥

त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः।
इमं तं मामम्ब त्वमियमनुकम्पार्द्रहृदये
पुनाना सर्वेषां अघमथन दर्पं दलयसि॥२८॥

श्वपाकानां व्रातैरमितविचिकित्साविचलितैः
विमुक्तानामेकं किल सदनमेनः परिषदाम् ।
अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरम्
तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः॥२९॥

न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो
मदुद्धारादाराद्भवति जगतो विस्मयभरः ।
इतीमामीहां ते मनसि चिरकालं स्थितवतीम्
अयं संप्राप्तोऽहं सफलयितुमम्ब प्रथमतः॥३०॥

श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनम्
कुतर्केष्वभ्यासः सततपरपैशून्यमननम् ।
अपि श्रावं श्रावं मम तु पुनरेवं गुणगणान्
ऋते त्वां को नाम क्षणमपि निरीक्षेत वदनम् ॥ ३१ ॥

विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलम्
न याभ्यामालीढा परमरमणीया तव तनुः ।
अयं हि न्यक्कारो जननि मनुजस्य श्रवणयोः
ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥ ३२ ॥

विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक्पापा जननि नरकान्तः परवशाः ।
विभागोऽयं तस्मिन्नुभयविध मूर्तिः जनपदे
न यत्र त्वं लीला शमित मनुजाशेषकलुषा ॥ ३३ ॥

अपि घ्नन्तो विप्रानविरतमुषन्तो गुरुसतीः
पिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम् ।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषाम्
उपर्यम्ब क्रीडन्त्यखिलसुरसंभावितपदाः॥३४॥

अलभ्यं सौरभ्यं हरति सततं यः सुमनसाम्
क्षणादेव प्राणानपि विरह शस्त्रक्षत भृताम् ।
त्वदीयानां लीलाचलित लहरीणां व्यतिकरात्
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम्॥३५॥

कियन्तः सन्त्येके नियतमिह लोकार्थ घटका:
परे पूतात्मानः कति च परलोकप्रणयिनः ।
सुखं शेते मातस्तव खलु कृपातः पुनरयम्
जगन्नाथः शश्वत्त्त्वयि निहितलोकत्रयभरः॥३६॥

भवत्या हि व्रात्याऽधम पतित पाषण्डपरिषत्
परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा।
ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति
स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः॥३७॥

प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-
तटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः ।
गलक्रोड क्रीडज्जल डमरु टङ्कार सुभगः
तिरोधत्तां तापं त्रिदश तटिनी ताण्डव विधिः॥३८॥

सदैव त्वय्येवार्पित कुशल चिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेऽस्मिन् सुविषमे ।
तदा विश्वासोऽयं त्रिभुवन तलादस्तमयते
निराधारा चेयं भवति निर्व्याजकरुणा॥३९॥

कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः
मुरारेः प्रेङ्खन्त्यो मृदुलतर सीमन्त सरणौ।
भवान्या सापत्न्या स्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः॥४०॥

प्रपद्यन्ते लोकाः कति न भवतीमत्रभवतीम्
उपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।
अये तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि
स्वभावादेव त्वय्यमितमनुरागं विधृतवान्॥४१॥

ललाटे या लोकैरिह खलु सलीलं तिलकिता
तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।
विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं
त्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम्॥४२

 नरान्मूढांस्तत्तज्जनपदसमासक्तमनसः
हसन्तः सोल्लासं विकच कुसुम व्रातमिषतः ।
पुनानाः सौरभ्यैः सतत मलिनो नित्यमलिनान्
सखायो नः सन्तु त्रिदशतटिनीतीरतरवः॥४३॥

भजन्त्येके देवान् कठिनतर सेवांस्तदपरे
वितानव्यासक्ता यमनियमारक्ताः कतिपये ।
अहं तु त्वन्नामस्मरणहितकामस्त्रिपथगे
जगज्जालं जाने जननि तृणजालेन सदृशम्॥४४॥

अविश्रान्तं जन्मावधि सुकृतकर्मार्जनकृताम्
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।
निरस्तालम्बानाम.ऽकृतसुकृतानां तु भवतीम्
विनामुष्मिन् लोके न परमवलोके हितकरम्॥४५॥

पयः पीत्वा मातस्तव सपदि यातः सहचरैः
विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे
चिरादुन्निद्रं मां सदयहृदये स्थापय चिरम्॥४६॥

बधान द्रागेव द्रढिम रमणीयं परिकरम्
किरीटे बालेन्दुं नियमय पुनः पन्नग गणैः ।
न कुर्यास्त्वं हेलामितर जनसाधारण धिया
जगन्नाथस्य अयं सुरधुनि समुद्धार समयः॥४७॥

शरच्चन्द्रश्वेतां शशिशकल शोभाल मुकुटाम्
करैः कुम्भाम्भोजे वराभय निरासौ विदधतीम् ।
सुधासाराकाराभरणवसनां शुभ्रमकर-
स्थितां त्वां ध्यायन्त्युदयति न तेषां परिभवः॥४८॥

दरस्मित समुल्लसद्वदनकान्तिपूरामृतैः
भवज्वलन भर्जिताननिशमूर्जयन्ती नरान् ।
विवेकमय चन्द्रिका चयचमत्कृतिं तन्वती
तनोतु मम शं तनोः सपदि शन्तनोरङ्गना॥४९॥

मंत्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधा रसैर्विदलितं गारुत्मतैर्ग्रावभिः ।
वीचिक्षालित कालिया हित पदे स्वर्लोक कल्लोलिनि
त्वं तापं निरयाधुना मम भवव्यालावलीढात्मनः॥५०॥

द्यूते नागेन्द्रकृत्ति प्रमथगण मणिश्रेणि नन्दीन्दुमुख्यं
सर्वस्वं हारयित्वा स्वमथपुरभिदिद्राक्पणी कर्तुकामे ।
साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब
व्यालो लोल्लासि वल्गल्लहरि नटघटी ताण्डवं नः पुनातु॥५१॥

विभूषितानङ्ग रिपूत्तमाङ्गा, सद्यः कृतानेकजनार्तिभङ्गा ।
मनोहरोत्तुङ्गचलत्तरङ्गा,गङ्गा ममाङ्गान्यमली करोतु॥५२॥

इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् । 
यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः ॥ ५૩ ।।
 ।। इति गंगा लहरीम् ।।
[posts--tag:Stotra--18]

You may like these posts: