साधनपंचकं स्तोत्र


 वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचिति: काम्ये मतिस्त्यज्यताम् ।
पापौघ: परिधूयतां भवसुखे दोषोऽनुसंधीयताम
આत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ।।1।।

संग: सत्सु विधीयतां भगवतो भक्तिर्द्रढा धीयतां
शान्त्यादि: परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्विद्वानुपसप्र्यतां प्रतिदिनं तत्पादुका सेव्यातां
ब्रहौकाक्षरमथ्र्यतां श्रुतिशिरोवाक्यं समाकण्र्यताम् ।।2।।

वाक्यार्थश्च विचार्यतां श्रुतिशिर: पक्ष: समाश्रीयतां
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम् ।
ब्रम्हौवास्मि विभाव्यतामहरहर्गर्व: परित्यज्यतां
देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वाद: परित्यज्यताम् ।।3।।

क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यताम् ।
शीतोष्णादि विषह्रमातां न तु वृथा वाक्यं समुच्चार्यताम
ઔदासीन्यमभीप्स्यतां जनकृपा नैष्ठुर्यमुत्सृज्यताम् ।।4।।

एकान्ते सुखमास्यतां परतरे चेत: समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरै: शि्लष्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रम्हात्मना स्थीयताम् ।।5।।

य: श्लोकपंचकमिदं पठते मनुष्य:
सञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य ।
तस्याशु संसृतिदवानलतीव्रघोर
ताप:प्रशांतिमुपयाति चितिप्रसादात् ।।6।।

Sri Adi Shankaracharya
[posts--tag:Stotra--18]

You may like these posts: